|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.130. अध्यायः 130
Mahabharata - Udyoga Parva - Chapter Topics
मातृवाक्यमनादृत्य निर्गतेन दुर्योधनेन कर्णादिभिः सहालोच्य कृष्णबन्धननिर्धारणम् ॥ 1 ॥ इङ्गितज्ञेन सात्यकिना कृष्णादिषु तन्नवेदनम् ॥ 2 ॥ धृतराष्ट्रेण पुनर्दुर्योधनमानाय्य कृष्णस्य दुर्ग्रहत्वनिरूपणम् ॥ 3 ॥ विदुरेण संगृह्य कृष्ण चरित्रनिरूपणपूर्वकं दुर्योधनगर्हणम् ॥ 4 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-130-0x(3770)(36187)
तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् ।
पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम् ॥ 5-130-1(36188)
ततः सभाया निर्गम्य मन्त्रयामास कौरवः।
सौबलेन मताक्षेण राज्ञा शकुनिना सह ॥ 5-130-2(36189)
` दुर्योधनं धार्तराष्ट्रं कर्णं दुःशासनोऽब्रवीति ।
नोचेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः ।
बद्ध्वैव त्वां प्रदास्यन्ति पाण्डुपुत्राय भारत ॥ 5-130-3(36190)
वैकर्तनं त्वां च मां च त्रीनेतान्भरतर्षभ ।
पाण्डवेभ्यः प्रदास्यन्ति भीष्मद्रोणौ पिता च ते ॥ 5-130-4(36191)
दुःशासनस्य तद्वाक्यं निशम्य भरतर्षभ ।
दुर्योधनो धार्तराष्ट्रो निश्वस्य प्रहसन्निव ॥ 5-130-5(36192)
एकान्तमुपसृत्येह मन्त्रं पुनरमन्त्रयत् ।
सौबलेन मताक्षेण राज्ञा शकुनिना सह ॥' 5-130-6(36193)
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च।
दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् ॥ 5-130-7(36194)
पुराऽयमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः ।
सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥ 5-130-8(36195)
वयमेव हृषीकेशं निगृह्णीम बलादिव।
प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा ॥ 5-130-9(36196)
श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः ।
निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः ॥ 5-130-10(36197)
अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च ।
अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम्।
निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह ॥ 5-130-11(36198)
तस्माद्वयमिहैवैकं केशवं क्षिप्रकारिणम् ।
क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् ॥ 5-130-12(36199)
वैशम्पायन उवाच। 5-130-13x(3771)
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम्।
इङ्गितज्ञः कविः क्षिप्रमन्वबुद्ध्यत सात्यकिः ॥ 5-130-13(36200)
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः ।
अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम् ॥ 5-130-14(36201)
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः ।
यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकारिणे ॥ 5-130-15(36202)
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव ।
आचष्ट तमभिप्रायं केशवाय महात्मने ॥ 5-130-16(36203)
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत ।
तेषामेतमभिप्रायमाचचक्षे स्मयन्निव ॥ 5-130-17(36204)
धर्मादर्थाच्च कामाच्च कर्म साधुविगर्हितम् ।
मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन ॥ 5-130-18(36205)
पुरा विकुर्वते मूढाः पापात्मानः समागताः ।
धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः ॥ 5-130-19(36206)
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः।
पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः ॥ 5-130-20(36207)
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् ।
धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि ॥ 5-130-21(36208)
राजन्परीतकालास्ते पुत्राः सर्वे परन्तप ।
असक्यमयशस्यं च कर्तुं कर्म समुद्यताः ॥ 5-130-22(36209)
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च ।
निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् ॥ 5-130-23(36210)
इमं पुरुषशार्दूलमप्रधृष्यं दुरसदम् ।
आसाद्य नभविष्यन्ति पतङ्गा इव पावकम् ॥ 5-130-24(36211)
अयमिच्छन्हि तान्सर्वान्युध्यमानाञ्जनार्दनः ।
सिंहो नागानिव क्रुद्धो गमयेद्यमसादनम् ॥ 5-130-25(36212)
न त्वयं निन्दितं कर्म कुर्यात्पापं कथंचन ।
न च धर्मादपक्रामदेच्युतः पुरुषोत्तमः ॥ 5-130-26(36213)
` यथा वाराणसी दग्धा साश्वा सरथकुञ्जरा ।
सानुबन्धस्तु कृष्णेन काशीनामृषभो हतः ॥ 5-130-27(36214)
तथा नागपुरं दग्ध्वा शङ्खचक्रगदाधरः ।
स्वयं कालेश्वरो भूत्वा नाशयिष्यति कौरवान् ॥ 5-130-28(36215)
पारिजातहरं ह्येनमेकं यदुसुखावहम्।
नाभ्यवर्तत संरब्धो वृत्रहा वसुभिः सह ॥ 5-130-29(36216)
प्राप्य निर्मोचने पाशान्षट्सहस्रांस्तरस्विनः ।
हृतास्ते वासुदेवेन ह्युपसङ्क्रम्य कौरवान् ॥ 5-130-30(36217)
द्वारमासाद्य सौभस्य विधूय गदया गिरिम्।
द्युमत्सेनः सहामात्यः कृष्णेन विनिपातितः ॥ 5-130-31(36218)
शेषवत्त्वात्कुरूणां तु धर्मापेक्षी तथाऽच्युतः ।
क्षमते पुण्डरीकाक्षः शक्तः सन्पापकर्मणाम् ॥ 5-130-32(36219)
एते हि यदि गोविन्दमिच्छन्ति सह राजभिः ।
अद्यैवातिथयः सर्वे भविष्यन्ति यमस्य ते ॥ 5-130-33(36220)
यथा वायोस्तृणाग्रणि वशं यान्ति बलीयसः।
तथा चक्रभृतः सर्वे वशमेष्यन्ति कौरवाः ॥ 5-130-34(36221)
वैशम्पायन उवाच।' 5-130-35x(3772)
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् ।
धृतराष्ट्रमभिप्रेक्ष्य सुहृदां श्रृण्वतां मिथः ॥ 5-130-35(36222)
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा ।
एते वा मामहं वैनाननुजानीहि पार्थिव ॥ 5-130-36(36223)
एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे ।
न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन ॥ 5-130-37(36224)
पाण्डवार्थे हि लुभ्यन्तः स्वार्थान्हास्यन्ति ते सुताः ।
एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः ॥ 5-130-38(36225)
अद्यैव ह्यहमेनांश्च ये चैनाननु भारत ।
निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् ॥ 5-130-39(36226)
` एष मे निश्चयो राजन्यद्येषोऽस्य विनिश्चयः ।
नर्दन्तु सहिताः शङ्खाः पणवानकनिस्वनैः ॥ 5-130-40(36227)
अनायासेन पार्थानां पर्वतां च शिवं महत्।
निगृह्य राजन्पार्थेभ्यो दद्यां चेत्सुकृतं भवेत् ॥' 5-130-41(36228)
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत ।
सन्निधौ ते महाराज क्रोधजं पापबुद्धिजम् ॥ 5-130-42(36229)
एष दुर्योधनो राजन्यथेच्छति तथाऽस्तु तत्।
अहं तु सर्वांस्तनयाननुजानामि ते नृप ॥ 5-130-43(36230)
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत ।
क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् ॥ 5-130-44(36231)
सहमित्रं सहामात्यं ससोदर्यं सहानुगम्।
शक्नुयां यदि पन्थानमवतारयितुं पुनः ॥ 5-130-45(36232)
ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्मभाम् ।
अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥ 5-130-46(36233)
अथ दुरोयधनं राजा धृतराष्ट्रोऽभ्यभाषत ।
कर्णदुःशासनाभ्यां च राजभिश्चापि संवृतम् ॥ 5-130-47(36234)
नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान्।
पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि ॥ 5-130-48(36235)
अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् ।
यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः ॥ 5-130-49(36236)
त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् ।
पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि ॥ 5-130-50(36237)
यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः ।
तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा ॥ 5-130-51(36238)
देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः।
न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् ॥ 5-130-52(36239)
दुर्ग्राह्यः पाणिना वायुर्दुस्पर्शः पाणिना शशी ।
दुर्धरा पृथिवी मूर्ध्ना दुर्ग्राह्यः केशवो बलात् ॥ 5-130-53(36240)
इत्युक्ते धृतराष्ट्रेण क्षत्ताऽपि विदुरोऽब्रवीत्।
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ॥ 5-130-54(36241)
दुर्योधन निबोधेदं वचनं मम सांप्रतम्।
सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः।
शिलावर्षेण महता छादयामास केशवम् ॥ 5-130-55(36242)
ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् ।
ग्रहीतुं नाशकच्चैनं तं त्वं प्रार्थयसे बलात् ॥ 5-130-56(36243)
प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः ।
ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ॥ 5-130-57(36244)
अनेकयुगवर्षायुर्निहत्य नरकं मृधे ।
नीत्वा कन्यासहस्राणि उपयेमे यथाविधि ॥ 5-130-58(36245)
निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः ।
ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् ॥ 5-130-59(36246)
अनेन हि हता बाल्ये पूतना शिशुना तदा।
गोवर्धनो धारितश्च गवार्थे भरतर्षभ ॥ 5-130-60(36247)
अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः।
अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् ॥ 5-130-61(36248)
जरासन्धश्च वक्रश्च शिशुपालश्च वीर्यवान् ।
बाणाश्च निहतः सङ्ख्ये राजानश्च निषूदिताः ॥ 5-130-62(36249)
वरुणो निर्जितो राजा पावकश्चामितौजसा ।
पारिजातं च हरता जितः साक्षाच्छचीपतिः ॥ 5-130-63(36250)
एकार्णवे च स्वपता निहतौ मधुकैटभौ ।
जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः॥ 5-130-64(36251)
अयं कर्ता न क्रियते कारणं चापि पौरुषे ।
यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः ॥ 5-130-65(36252)
तं न बुध्यसि गोविन्द घोरविक्रममच्युतम्।
आशीविषमिव क्रूद्धं तेजोराशिमनिन्दितम् ॥ 5-130-66(36253)
प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम्।
पतङ्गोऽग्निमिवासाद्य सामात्यो नभविष्यसि ॥ ॥ 5-130-67(36254)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रिंशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-130-9 वैरोचनिं बलिम् ॥ 5-130-18 कर्म दूतनिग्रहाख्यम् ॥ 5-130-38 पाण्डवार्थे पाण्डवधने ॥ 5-130-42 इदं तु कर्म कर्तुमिति शेषः ॥ 5-130-49 निर्मोचने नगरविशेषे ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|